आदिः उदात्तः इति वर्तते। शुष्क धृष्ट इत्येतावाद्युदात्तौ भवतः। शुष्कः। धृष्टः। असंज्ञार्थ आरम्भः।
"शुष्कः" इति। "शुष शोषणे" (धा।पा।११८३) "शुषः कः"
८।२।५१ इति क्तस्य कादेशः। "धृष्टः" इति। ञिधृषा प्रागल्भ्ये" (धा।पा।१२६९) ष्टुत्वम्()। कत्वष्टुत्वयोरसिद्धत्वादिह निष्ठान्तत्वं वेदितव्यम्()।
"असंज्ञार्थं आरम्भः" इति। संज्ञायां पूर्वेणैव सिद्धत्वात्()॥